ऋकारान्तात् प्रातिपदिकातञ् प्रत्ययो भवति तस्य धर्म्यम् इत्येतस्मिन् विषये। ठको ऽपवादः। पोतुर् ध्र्म्यं पौत्रम्। औद्गात्रम्। नरच् च एति वक्तव्यम्। नरस्य धर्म्या नारी। विशसितुरिड्लोपश्च। विशसितुः धर्म्यम् वैशस्त्रम्। विभाजयितुर्णिलोपश्च। विभाजयितुर् ध्र्म्यम् वैभाजित्रम्।
ऋतोऽञ्। ऋदन्तात्षष्ठ()न्ताद्धम्र्यमित्यर्थे अञित्यर्थः।
नारीति। अञन्तत्वान्ङीबिति भावः। इड्लोप इति। इटो लोप इत्यर्थः।
वैशस्त्रमिति। विशसितृशब्दादञि इटो लोपे ऋकारस्य यणि आदिवृद्धिः।
वैभाजित्रमिति। विभाजयितृशब्दादञि णिलोपः।